पूर्वम्: ६।३।११८
अनन्तरम्: ६।३।१२०
 
सूत्रम्
शरादीनां च॥ ६।३।११९
काशिका-वृत्तिः
शरादीनाम् च ६।३।१२०

शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती। शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। संज्ञायाम् ८।२।११ इति मतोर्वत्वम्। यवादित्वात् व्रीह्यादिभ्यो न भवति।
न्यासः
शरादीनां च। , ६।३।११९

अबह्वर्थोऽयमारम्भः। "शरावती" इति। "नद्यां मतुप्()" ४।२।८४ इति मतुप्()॥
बाल-मनोरमा
शरादीनां च १०२७, ६।३।११९

शरादीनां च। " मतौ दीर्घः संज्ञाया"मिति शेषः। अबह्वच्कत्वात्पूर्वेण न प्राप्तिः। शरावतीति। शरा अस्यां सन्तीति विग्रहः। नदीविशेषस्य नाम।